The Banalinga Kavacham is as follows:
बाणलिङ्गकवचम्
अस्य बाणलिङ्ग कवचस्य संहारभैरवऋषिर्गायत्रीच्छन्दः,
हौं बीजं, हूं शक्तिः, नमः कीलकं, श्रीबाणलिङ्ग सदाशिवो देवता,
ममाभीष्ट सिद्ध्यर्थं जपे विनियोगः ॥ॐ कारो मे शिरः पातु नमः पातु ललाटकम् ।
शिवस्य कण्ठदेशं मे वक्षोदेशं षडक्षरम् ॥ १॥बाणेश्वरः कटीं पातु द्वावूरू चन्द्रशेखरः ।
पादौ विश्वेश्वरः साक्षात् सर्वाङ्गं लिङ्गरूपधृक् ॥ २॥इतिदं कवचं पूर्व्वं बाणलिङ्गस्य कान्ते
पठति यदि मनुष्यः प्राञ्जलिः शुद्धचित्तः ।
व्रजति शिवसमीपं रोगोशोकप्रमुक्तो
बहुधनसुखभोगी बाणलिङ्ग प्रसादतः ॥ ३॥इति बाणलिङ्ग कवचं समाप्तम् ॥
Which scripture is it from?